सामग्री पर जाएँ

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शास्त्रीयलेखाः

गीतोपदेशः

भगवद्गीता भगवतः गीता भगवद्गीता। एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते। श्रीकृष्ण: अत्र उपदेशकः श्रोता अर्जुनः। हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता। गीतायाम् अष्टादश अध्यायाः सन्ति। अस्य मोक्षशास्त्रम् इत्यपि नाम वर्तते। प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते। कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः। श्रीमदभगवद्गीताख्यं शास्त्रं वैदिकवाङ्मये सम्पूर्णवेदस्थानीयमिति शास्त्रविदां मतम्। वेदवत् त्रिकाण्डात्मकत्वात्, समस्तवेदार्थसारसंग्रहभूतत्वात्, सर्वशास्त्रमयत्वात्, सर्वसाधारणलोकोपकारकत्वाच्च। प्रसिद्धिश्चैतादृश्येव –

गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥ (अधिकवाचनाय »)



आधुनिकलेखः

ऋषभदेवः जैनधर्मस्य चतुर्विंशत्यां तीर्थङ्करेषु प्रथमः तीर्थङ्करः आसीत्। सः आदिनाथः, वृषभनाथः इति नाम्ना अपि ज्ञायते। सः योगी आसीत्। तस्य पुत्रस्य भरतस्य नामानुसारम् एव भारतदेशः इति नाम प्रदत्तम्। ऋषभदेवस्य जन्म अयोध्या-नगरे चैत्र-मासस्य कृष्णपक्षस्य नवम्यां तिथौ अभवत्। तस्मिन् दिने उत्तराषाढा-नक्षत्रमासीत्। (अधिकवाचनाय »)




ज्ञायते किं भवता?

एकैकस्य वेदस्य चत्वारः भागा: -

  1. संहिता
  2. ब्राह्मणम्
  3. आरण्यकम्
  4. उपनिषत्



वार्ताः

संस्कृतवार्ताः
संस्कृतविकिपीडिया
  • उत्तराखण्ड-राज्ये संस्कृत-आयोगस्य स्थापना

​22 जुलाई 2026 तमे दिनाङ्के उत्तराखण्ड-राज्य-सर्वकारेण संस्कृत-भाषायाः प्रवर्धनाय 'संस्कृत-आयोगः' इति स्थापयितुं निर्णयः कृतः। अस्य आयोगस्य उद्देश्यं संस्कृत-शिक्षणस्य, अनुसन्धानस्य, प्राचीन-पाण्डुलिपीनां डिजिटल-करणस्य, भारतीय-ज्ञान-परम्परायाः तथा च एआई-क्षेत्रे संस्कृतस्य उपयोगस्य वर्धनम् अस्ति। मुख्यमन्त्रिणा पुष्कर-सिंह-धामिना 10 अगस्त 2026 पर्यन्तं विदूषां परामर्शः आहूतः।

​* प्रधानमन्त्रिणा एक्स-मञ्चे संस्कृत-सुभाषितं प्रेषितम्

​21 जुलाई 2026 तमे दिनाङ्के भारतस्य प्रधानमन्त्रिणा नरेन्द्र-मोदिना एक्स-मञ्चे एकं संस्कृत-सुभाषितं प्रकाशितम्। अत्र तेन एकाग्रतायाः सङ्कल्प-शक्तेः च महत्त्वं प्रतिपादितम्। "एकाग्रताथ सङ्कल्पः स्नायुवद् वर्द्धनक्षमौ। नित्याभ्यासप्रयोगाभ्यामधिकाधिकमृध्यतः॥" इति श्लोकम् उद्धृत्य तेन स्पष्टं कृतं यत् निरन्तराभ्यासेन एव मनुष्यस्य सङ्कल्प-शक्तिः वर्धते।

​* अस्ट्रेलियादेशस्य एडिलेड-नगरे पैसिफिक-संस्कृत-सम्मेलनम्

​20 जुलाई 2026 तमे दिनाङ्के अस्ट्रेलियादेशस्य एडिलेड-नगरे बीएपीएस श्रीसहजानन्दस्वामिमन्दिरे पञ्चदिवसीयं पैसिफिक-संस्कृत-सम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने अस्ट्रेलिया-न्यूजीलैंड-देशाभ्यां सार्धत्रिशताधिकैः प्रतिनिधिभिः सहभागिता कृता, येषु 292 छात्राः आसन्। अत्र बीएपीएस सहजानन्दस्वामि-अनुसन्धान-संस्थानेन प्रचालितानाम् अन्तर्जालीय-संस्कृत-पाठ्यक्रमाणां महत्त्वं प्रदर्शितम् अस्ति। अनेन सम्मेलनेन संस्कृत-भाषायाः प्रसारः सञ्जातः।

अद्यतनं सुभाषितम्

सर्पाः पिबन्ति पवनं न च दुर्बलास्ते

शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति।
कन्दैः फलैर्मुनिवरा गमयन्ति कालं
सन्तोष एव पुरुषस्य परं निधानम् ॥

पञ्चतन्त्रम् २/१५६

सामान्यतः जनाः चिन्तयन्ति यत् जगति दृश्यमानानि वस्तूनि एव लक्ष्यसिद्धौ प्रमुखं पात्रं वहन्ति इति। किन्तु तत् न सत्यम् इति एतैः उदाहरणैः ज्ञायते - सर्पाः वायोः सेवनमात्रेण जीवन्ति चेदपि ते न दुर्बलाः। शुष्कानि तृणानि खादन् गजः अरण्ये अत्यन्तं बलवान् भवति। कन्दमूलानि खादन्तः एव ऋषयः सर्वेषां मार्गदर्शकः सन्तः तिष्ठन्ति। अतः सन्तोषः एव पुरुषस्य परमं धनम् अस्ति न तु अन्यद् किमपि।


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्